(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.20. अध्यायः 020
Mahabharata - Udyoga Parva - Chapter Topics
हस्तिनपुरंगतेन द्रुपदपुरोहितेन राज्ञां सभामध्ये द्रुपदवचनकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-20-0x(3416)(32313)
स च कौरव्यमासाद्य द्रुपदस्य पुरोहितः।
सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च ॥ 5-20-1(32314)
सर्वकौशल्यमुक्त्वाऽऽदौ पृष्ट्वा चैवमनामयम्।
सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह ॥ 5-20-2(32315)
सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः।
वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति ॥ 5-20-3(32316)
धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ ।
तयोः समानं द्रविणं पैतृकं नात्र संशयः ॥ 5-20-4(32317)
धृतराष्ट्रस्य ये पुत्राः प्राप्तं तैः पैतृकं वसु।
पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु ॥ 5-20-5(32318)
वनं गतैः पाण्डवेयैर्विदितं वः पुरा यथा।
न प्राप्तं पैतृकं द्रव्यं धृतराष्ट्रेण यद्धृतम्॥ 5-20-6(32319)
प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः ।
शेषवन्तो न शकिता नेतुं वै यमसादनम् ॥ 5-20-7(32320)
पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः ।
छद्मनाऽपहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः ॥ 5-20-8(32321)
तदप्यनुमतं कर्म यथा युक्तमनेन वै।
वासिताश्च महारण्ये वर्षाणीह त्रयोदश ॥ 5-20-9(32322)
सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम् ।
अरण्ये विविधाः क्लेशाः संप्राप्तास्तैः सुदारुणाः ॥ 5-20-10(32323)
तथा विराटनगरे योन्यन्तरगतैरिव।
प्राप्तः परमसंक्लेशो यथा पापैर्महात्मभिः ॥ 5-20-11(32324)
ते सर्वं पृष्ठतः कृत्वा तत्पूर्वं कर्म किल्विषम् ।
साम्नैव कुरुभिः सन्धिमिच्छन्ति कुरुपुङ्गवाः ॥ 5-20-12(32325)
तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च।
अनुनेतुमिहार्हन्ति धार्तराष्ट्रं सुहृज्जनाः ॥ 5-20-13(32326)
न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह।
अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् ॥ 5-20-14(32327)
यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति।
स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते ॥ 5-20-15(32328)
अक्षौहिण्यश्च सप्तैव धर्मपुत्रस्य सङ्गताः।
युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् ॥ 5-20-16(32329)
अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः ।
सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ ॥ 5-20-17(32330)
एकादशैताः पृतना एकतश्च समागताः ।
एकतश्च महाबाहुर्बहुरूपी धनञ्जयः ॥ 5-20-18(32331)
यथा किरीटी सर्वाभ्यः सेनाभ्यो व्यतिरिच्यते।
एवमेव महाबाहुर्वासुदेवो महाद्युतिः ॥ 5-20-19(32332)
बहुलत्वं च सेनानां विक्रमं च किरीटिनः।
बुद्धिमत्त्वं च कृष्णस्य बुद्ध्वा युध्येत को नरः ॥ 5-20-20(32333)
ते भवन्तो यथाधर्मं यथासमयमेव च।
प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् ॥ ॥ 5-20-21(32334)

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि विंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-20-3 वाक्येति। भवद्भिः किंचिद्वक्तव्यमतो हेतोरित्यर्थः ॥ 5-20-7 शेषवन्तः आयुःशेषयुक्ताः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.